________________
[ ४८८ ]
योग
तस्य कत्तु रपेक्षायाः, विधीनां व्यवस्थापने ॥ २६१ ॥ रसिकस्तस्य कर्त्ताऽपि भव्य एव निगद्यते । तद्वार्त्तासु च प्रामाण्यं, योगदृष्टौ प्रदर्शितम् २६२॥ तात्त्विकः पक्षपातश्च, भावशून्या च या क्रिया । अनयोरन्तरं ज्ञेयं, भानु खद्योतयोरिव ॥ २३३॥ उपसंहाररूपेण, यत्किञ्चित्प्रणिगद्यते । प्रस्तुतविषये चैव सावधानेन श्रूयताम् || २६४ ॥ स्थानादिपश्च योगेषु, यस्य प्रयत्नशीलता । चैत्यवन्दन कादीनि, अनुष्ठानानि तस्य वै ॥ २६५॥ सदनुष्ठानरूपेण, सर्वदा परिजायते ।
अतो हि शुद्धभावेन, सदनुष्ठानकं भजेत् ॥ २६६ ॥ चैत्यवन्दनकर्त्तव्ये, स्थानादियोग योजने । वार्ताऽचलच्च तत्रैव, प्रसङ्गवशतो यदा ॥ २६७॥ तीर्थोच्छेदस्तु को वस्तु, विधिप्ररूपणा तथा । . तीर्थरक्षणकार्ये च आवश्यकी मता सदा ॥ २६८ ॥ इति वार्त्ता प्रसंगेन चर्चा चात्रैव चर्चिता । प्रकृतमनुसृत्यैव वक्तव्यं प्रणिगद्यते ॥ २६६ ॥ चैत्यवन्दनकाद्याश्च क्रियास्तु वाह्यरूपिकाः ।