________________
-प्रदीप
[४८७]
mmmm
अविहिकया परमकयमसूयवयणं मणंति सव्वन्नू । पायच्छित्तं जम्हा, अकए गुरुयं कए लहुअं॥२५॥ उत्तरम् :नैतानि वचनान्येव, मूलत एव चाविधेः । प्रवृत्तिकारकाण्येव, किन्तु विधिप्रवृत्तिके ॥२५४॥ अनाभोगादिना चैव, ज्ञेया चाविधिदोषता । छद्मस्थेन न तद्भीत्या, क्रिया त्यागो वितन्यते २५५ तथाविधित्वज्ञानानामाद्याऽभ्यासे त्वभावता। वान्यदापि प्रवक्तव्या, अविधिदोषता खलु ॥२५६॥ निरनुबन्धरूपा सा, अतस्तस्य च तादृशम् । अनुष्ठानं न दोषाय, विधीनां बहुमानतः ॥२५७॥ गुर्वाज्ञा योगभावाच्च, तस्य च विधिरूपता । एतद्वार्ता प्रदृष्टव्ये, ज्ञेयानि वचनान्यपि ॥२५८॥ अतः कश्चिन्न दोषः स्याद्मन्तव्यः शुद्धबुद्धिना। अध्यात्मसारग्रन्थे च, यदुक्तं तत्प्रदर्श्यते ॥२५६॥, अशुद्धापि हि यच्छुद्धाः, क्रियाहेतुः सदाशयात्। तानं रसानुवेधेन, सुर्णत्वमुपगच्छति ॥२६॥ योऽविधिबहुमानात्तु, कुर्यादविधिना क्रियाम् ।