________________
[४८६]
योगतदा तु नैव कार्य स्यादलौकिकं च सर्वथा ॥२४४॥ ज्ञानसारे प्रोक्तम् :स्तोका आया अनार्येभ्यः, स्तोका जैनाश्च तेष्वपि । शुद्धास्तेष्वपि स्तोकाः स्युःस्तोकास्तेष्वपि सक्रियाः। श्रेयोर्थिनो हि भूयांसो, लोके लोकोत्तरे च न। स्तोका हि रत्नवणिजः, स्तोकाश्च स्वात्मसाधकाः ॥ एकोऽपि शास्त्रनीत्या यः, वर्त्तते स महाजनः । किमज्ञसार्थक शतमन्धस्य न पश्यति ॥२४७॥ यत्संविज्ञजनाचीर्ण, श्रुतवाक्यैरवाधितम् । तज्जीतं व्यवहाराख्यं, पारम्पर्यविशुद्धिमत् ॥२४॥ यदाऽऽचीर्णमसंविज्ञः, श्रुतार्थानवलम्बिभिः । न जीतं व्यवहारस्तदन्धसन्ततिसम्भवम् ॥२४॥ आकल्पव्यवहारार्थ, श्रुतं न व्यवहारकम् । इतिवक्तुमहत्तन्त्रे, प्रायश्चित्तं प्रदर्शितम् ॥२५०॥ तस्माच्छू तानुसारेण, विध्येकरसिकैर्जनैः । संविज्ञजीतमालम्ब्यमित्याज्ञा पारमेश्वरी ॥२५१॥ यदि सर्वादरेणैव, पक्षपातो विधेः सदा। क्रियते तर्हि शास्त्रस्य, पाठानां का गतिर्भवेत् २५२॥