________________
- प्रदोष
[ ४८५ ]
पापकारकव्यक्तीनामपेक्षया च कारिते । उपदेशे जनानां च सर्वथा दोषभागिता || २३३ ।। अनो योग्येषु पात्रेषु, शुद्धशास्त्रोपदेशनम् । स्वयं शुद्धप्रवृत्तिश्च कर्त्तव्या तीर्थरक्षणे ॥ २३७॥ वार्त्ता च तादृशीं श्रुत्वा, स्थूलबुद्धिकमानुषः । वदति नैव कर्त्तव्या, चर्चा मस्तकस्फोटिका ॥ २३८ " महाजनो येन गतः स पन्थाः" तद्वाक्यामुसारेणपूर्वपरंपरा याता, या क्रिया सैव तन्यते । सा जीतव्यवहारस्य प्रवृत्तिः परिदृश्यते ॥ २३६ ॥ यावत्पर्यन्ततीर्थं च, तिष्ठति भारते सदा । तावत्पर्यन्तकालं तु, जीतव्यवहृतिर्भवेत् ॥ २४०॥ लोकसंज्ञां परित्यज्य, शुद्धशास्त्ररहस्यकम् । सूक्ष्मबुध्या च ज्ञातव्यं धर्मतीर्थं तु रक्षता ॥ २४९ ॥ शास्त्रापेक्षां च संत्यज्य गतानुगतिकत्वतः । लोकप्रवाहरूपस्य, प्रामाण्ये परिमानने ॥ २४२ ॥ लोकसंज्ञा समायाति, महाजनैर्विचार्यते । तज्जीतव्यवहारस्य, स्वरूपं कीदृशं भवेत् ॥ २४३॥ लोकविश्वासकर्त्तव्ये, यदि कल्याणता भवेत् ।