________________
[१६]
योग
द्रव्यभावेन हिंसानां, स्वरूपं परिचिन्त्यते ॥२६॥ अनुपयोगपूर्वेण, प्रमत्तयोगभावतः । अवतीनां प्रयाणेष, जीवानां मरणे तथा ॥२७॥ या हिंसा किल जायेत, द्रव्यभावस्वरूपिका । कथ्यते वीतरागाद्यः, संसाराऽनन्तदर्शिका ॥२८॥ सोपयोगस्वभावेन,अप्रमतत्वयोगतः। गच्छतां मुनिराजानां, जाता जीवमृतिन वै ॥२६॥ शुद्धाऽहिंसा तु विज्ञया, द्रव्यभावस्वरूपिका । दीपेव मार्गद्रष्टी सा, मोक्षं नयति लीलया ॥३०॥ दयारूपंच ज्ञातव्यं, स्वपरयोविभेदतः। चिदानंदस्वरूपेषु जीवेषु परमार्थतः ॥३१॥ मिथ्यात्वकारणैश्चान्यैः, कर्मागमस्वरूपकैः । अनादिकालतो जीवाः, भ्राम्यन्ते दुःखसागरे ॥३२॥ रोधो जीवेन तेषांच, चिन्तनीयो मुहुर्मुहुः । यथा यष्टि-प्रहारेण, जीवस्य दुःखता भवेत् ॥३३॥ कांगमनद्वारेण, संसारभ्रमणं दुःखम् । यष्टिजं तु क्षणं दुःखं, अनन्तकर्मजं दुःखम् ॥३४॥ यष्टि दुःखस्य वैनाशः, स्वल्पकाले प्रजायते ।