________________
-प्रदीप
[५] अहिंसा यमिनां ज्ञेया, गृहस्थानां निगद्यते ॥१७॥ हिंसाकरणसंकल्पः, बसेषु नैव धार्यते। निर्दोषित्रसजीवानां, हिंसात्यागोऽनपेक्षया ॥१॥ वशानां विंशतिः ज्ञेया, संयमिनाञ्च सर्वथा। सपादन्तु गृहस्थानां,विज्ञ या धर्मकांक्षिभिः ॥१६॥ द्रव्यभावप्रभेदाभ्यां, चतुभंगी प्ररूप्यते । एका-सा द्रव्यतो हिंसा,भावतो नैव कथ्यते ॥२०॥ ज्ञातव्या भावतश्चैका, द्रव्यतो न निगद्यते । द्रव्यतो भावतश्चैव, उभाभ्यामपि नो तथा ॥२॥ कायचापल्ययोगेन, यमिनां सोपयोगिनाम् । या जाता गमने हिंसा, द्रव्येण सा निगद्यते ॥२२॥ हिंसायाः परिणामस्य चाभावे काययोगतः। हिंसा या स्यात्तु जीवानां,द्रव्येणसा निरूपिता ॥२३॥ अनुपयोगपूर्वेण, ह्यव्रतीनांच गच्छताम् । जीवानां मृत्यभावेऽपि, हिंसात्वं न निवर्तते ॥२४॥ जीवाः पुण्यवशेनैव; तेषां पादेषु नागताः । अतो मृतिं न संप्राप्ताः म्रियन्ते चान्यथा ध्रुवम् ॥२॥ अतोऽत्र भावतो हिंसा, द्रव्यतो नैव गद्यते ।