________________
- प्रदीप
[ ४८३]
शास्त्रानुकूलकर्त्तव्यं, दुर्लभं वार्तमानिके । चलत्यशुद्धरूपा या साऽपि नश्यति सर्वथा ॥२१८ रक्षणे व्यवहारस्य, धर्मोऽपि रक्षितो भवेत् । तदुच्छेदे तदुच्छेदः, समागच्छति सत्वरम् ॥ २१६ ॥ तागसत्यव्यक्तीना मुन्मार्ग परिदशिनाम् । शास्त्रोपदेशकर्त्तव्ये शिक्षादानं विधीयते ॥ २२०॥ मृत्युदृष्टान्तकं पूर्व, दत्तं तत्तु विचार्यते । कर्मजन्यं स्वयं मृत्युः, तत्रान्यस्य न दोषता | २२१ । द्वितीयमृत्युकाले च कर्मसत्ता तु सर्वदा । किन्तु मारकव्यक्तीनां, दुष्टाशयो निमित्तकः ॥ २२२ अधिकः सोऽपि मन्तव्यः दुष्टाशयवतां सदा । अतोऽपि मारकव्यक्तीनामवश्यं दोषभागिता ॥२२३ तथैवात्र स्वयं लोकाः कुर्वन्ति सर्वदाऽविधिम् । शुद्धां क्रियां न कुर्वन्ति तत्र तेषां तु दोषता ॥ २२४ नोपदेशकव्यक्तीनां इति सत्यं तु मन्यताम् ।
"
येषां चैवोपदेशेन गच्छन्त्य विधिमार्गके ॥ २२५॥ ताहक क्रियां च कुर्वन्ति अतस्तेषां सदोषता । उपदेशक व्यक्तीनां, जायते नात्र संशयः ॥ २२६॥