________________
[४७८]
योगअतो योगाधिकाराणां, मता शिक्षा प्रदानता। अयोग्यानधिकाराणां, नो चैत्यवन्दनामता ॥१७॥ चैत्यवन्दनकर्तव्ये, योग्याधिकारिणश्च के। विरतिपरिणामेन ये योग्यास्ते च सम्मता ॥१७६॥ अतो योग्याधिकारेण ज्ञातव्याः स्पष्टरूपतः । इति शब्देन ज्ञातव्यं, कथानुष्ठानत्यागने ॥१७७॥ प्रतिज्ञा तु कृता या या, स्पष्टशब्दस्वरूपतः ॥ विरतिपरिणामं च, विना सा न वितन्यते ॥१७॥ विरतिपरिणामानामतोऽपि चैत्यवन्दनम् ॥ ते सर्वे योग्यरुषाः स्युः, अतो योग्याश्च ते मता॥१७६ तात्पर्यार्थस्तु तस्यैव, स्पष्टरूपो निगद्यते ॥ चैत्यवन्दनकर्तव्ये, प्रतिज्ञा परिभाव्यते ॥१०॥ तावकायं ठाणेणं इत्यादि ॥ . इत्यादि पाठद्वारेण, कायोत्सर्गस्य स्वीकृतिः ॥ क्रियमाणा तु कायस्य, गुप्तिरूपा विभाव्यते॥१८॥ विरतिपरिणामं च, विनातो नैव युज्यते अन्येषां योग्यता नैव, कायचेष्टा तु संमता ॥१८२ देशविरतिवन्तो हि, चैत्यवन्दनकार्यके ॥