________________
-प्रदीप
[४७७] निष्फलता च सद्भावे, क्रिया तु निष्फला मता। एतादृशानुष्ठानं च अननुष्ठानमुच्यते ॥१६६॥ चैत्यवन्दनकर्त्तव्यसमये प्रतिज्ञा कृता। ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामीति १६७ पाठोच्चारणकाले च, स्थानमौनादिकस्य वै । प्रतिज्ञां यादृशीं कृत्वा, तस्या भङ्ग तु जायते ॥१६८ महामृषा स्वरूपं हि, पापं तु नैव केवलम् । कर्मबन्धादिकत्वं वै, अननुष्ठानके भवेत् ॥१६॥ स्थानवर्णादियोगानां, सम्बन्धभवनेऽपि च । स्वर्गादि पारलौकिकोद्देशेन यदि तन्यते ॥१७०॥ तदा गरानुष्ठानं तत्कथ्यते जैनयोगतः। यच्च गरानुष्ठानं तद्, विषानुष्ठानतां भजेत् ॥१७१ धनकीर्यादिलोभेन ऐहिकफललिप्सुना। एतादृशानुष्ठाने च, कर्तव्ये विषनामता ॥१७२॥ ऐहिकपरलोक ना सुखस्य कामनादितः । मोक्षस्यैव प्रतिज्ञायाः, भङ्गः स्पष्ट उदाहृतः ॥१७३॥ अनेनैव प्रकारेण अननुष्ठानरूपकम् । गरविषानुष्ठानं च, हेयरूपेण मन्यते ॥१७४॥