________________
anwrrrr
-प्रदोष
[४७६] मध्यमाधिकारित्वं, सूचामात्रेण सम्मतम् ॥१८॥ तथा तलासमारोपे, मध्ये च ग्रहणे सति ॥ यथा पल्लौ च द्वौ ग्राह्यौ, तथैवात्रविचार्यताम् ॥१८४ फलितार्थःसर्वे विरतिवन्तोऽपि तत्त्वतश्चाधिकारिणः ॥ तात्विकदृष्टिदानेन, वस्तुतत्वं प्ररूपितम् ॥१८॥ अपुनर्बन्धकाः किन्तु, सम्यग्दर्शनिनस्तथा ॥ व्यहारेण ज्ञातव्याः, अधिकारिणस्ते तथा ॥१८६॥ अपुनर्बन्धभावेन, ये च शून्या हि सर्वथा ॥ विधिप्रचुरसन्मानं, कर्तुं जानन्ति नो कदा॥१८॥ अनधिकारवन्तो हि, चैत्यवन्दनकार्यके ॥ सर्वथा परिज्ञातव्या, शक्षा तेषां न दीयते ॥१८८ तद्धतुदव्यरूपं स्यादमृतंभावरूपकम् ॥ सदनुष्ठानता तत्र, अन्यत्र नैव मन्यते ॥१८॥ अननुष्ठानता रूपं, गरविषानुष्ठानकम् ॥ न द्रव्यभावरूपं न किन्तु चेष्टात्वमात्रकम् ॥१६॥ पश्चानुष्ठानमध्येष, हेयमाचं त्रयं मतम् ॥ अन्त्यद्वयमुपादेयं, मोक्षकारणकं शुभम् ॥१६१॥