________________
[४७४]
योगयदनुष्ठानकं चैव, मोक्षप्रदानशक्तिकम् ॥१३६॥ तदेव सदनुष्ठानं ज्ञातव्यं मोक्षकांक्षिणा। द्विविधं सदनुष्ठानं साक्षात्परम्परात्मकम् ॥१४०॥ फलदं परिज्ञातव्यं, योगदर्शनशास्त्रतः। अमृतत्वक्रियारूपं, प्रथमं परिकीर्तितम् ॥१४॥ तद्धतुत्वक्रियारूपं, द्वितीयं परिज्ञायताम् । प्रारम्भिकं च विज्ञेयं, चैत्यवन्दनरूपकम् ॥१४२॥ अत्र विचारता कार्या, अमृतत्वं च तत्कदा । चैत्यवन्दनकोच्चारणानुष्ठानं तथा भवेत् ॥१४३॥ स्थानवर्णार्थयोगानामालम्बनस्य शुद्धितः। एतच्चतुष्ट्ययोगानां, सम्बन्धस्तु घनः खलु ॥१४४ अर्थालम्बनयोगानां यत्र सम्बन्धता नहि । परन्तु रुचिमात्रत्वं, तद्धतुत्वं तदा भवेत् ॥१४॥ यदा विध्यनुसारेण, दृढीकृत्य च स्वासनम् । सूत्रं पठति भावेन, शुद्धोच्चारणपूर्वकम् ॥१४६॥ चैत्यवन्दनकाले च, तदा तु भद्रको जनः । तथालम्बनयोगे तु, उपयोगविशुद्धकम् ॥१४७।। तदा तच्चैत्यवन्दत्वं, चतुर्योगेन पूर्णकम् ।