________________
- प्रदीप
[ ४७५ ]
भावक्रिया स्वरूपं च, अमृतं चैत्यवन्दनम् ॥१४८॥ अर्थालम्बनयोगे च, उपयगोस्य रक्षणात् । ज्ञानस्वरूपयोगस्तु तत्रैवं संप्रवर्त्तते ॥ १४६ ॥ तथा विध्यासनं बध्वा, सूत्रोच्चारणशुद्धितः । चैत्यवन्दनपाठे च कर्त्तव्ये समये तु वै ॥ १५०॥ आलम्बने च सूत्रार्थे, उपयोगश्च नो यदा । चैत्यवन्दनता तादृक् तदोपयोगशून्यतः ॥ १५१॥ कारण द्रव्यरूपा सा, अर्थालम्बनहीनतः । तीव्ररुचिस्वरूपत्वमन्यतो भावरूपतः ॥ १५२ ॥ तादृक्षकार्यद्वारापि, कदाचिन्मोक्षसौख्यकम् । अतस्तादृगनुष्ठानमुपादेयं तद्धेतुतः ॥ १५३ ॥ उपयोगस्य चाभावे, तद्धेतुकं च सम्मतम् । स्वरसम्मत्तिमात्रादि, सर्वेषां सन्निधौ सति ॥ १५४॥ उपयोगस्य चाभावे, द्रव्यरूपं हि तन्मतम् । उपयोगस्य सवेऽपि, पूर्णकारणयोगतः ॥ १५५॥ अमृतं तच्च विज्ञेयममृतफलदानतः । स्थानादियोगहीनत्वे, केवलं नैव निष्फलम् ॥ १५६ ॥
१ तदा तचैत्यवन्दनत्वम्