________________
- प्रदोप
[ ४७३]
कामक्रोधकषायणां, शान्तिस्तु प्रथमो मतः ॥ १३०॥ इच्छादियोगतत्वानां कार्यरूपाणि तानि च ।
..
स्थानादियोगभेदानां, चैत्यवन्दन कादिषु ॥ १३१ ॥ अवतारस्तु योग्येन प्रकारेण वितन्यताम् । यदा कोऽपि च श्रद्धावान्, करोति चेत्यवन्दनम् १३२ ॥ अरिहंत चेहयाणां, करेमि काउसग्गेत्ति । तदा तु सूत्रपाठानां, विनोच्चारणतां तथा ॥१३३॥ कदापि नैव जायेत, ऊर्णताशुद्धरूपतः । यथाविधि तु सूत्राणां विशुद्धघोषपूर्वकम् ॥ १३४॥ उच्चारणं तथा कार्य, स्पष्टबोधो यतो भवेद् । दोषाणां परित्यागेन, सूत्राणां शुद्धजल्पने ॥१३५॥ वर्णयोगफलं तु स्याद्विशुद्ध पदज्ञान कम् । तदा तु तस्य जायेत, यदा च शुद्धजल्पनम् ॥ १३६ ॥ वर्णयोगप्रभावेन, पदज्ञानं तथार्थकम् । तथार्थपदज्ञानेन, अर्थालम्बनयोगिने ॥ १३७॥
बहुधाऽविपरीतेन, मुक्तिस्तु परिजन्यते । अर्थालम्बनयोगानां, राहित्ये स्थानवर्णतः ॥ १३८ ॥ पारम्पर्येण मोक्षस्य, आविर्भावो न जायते ।
,