________________
[४७२]
योगशुद्धा बुद्धिर्यतश्चैव, जायते दुरात्मनाम् ॥१२१॥ सिद्धियोगस्तु विज्ञेयः, सिद्धियोगं चिकीर्षता । इच्छादियोगवैशेषे, आशयभेदव्यंजकः ॥१२२॥ क्षयोपशमभेदस्तु, मन्तव्यो हेतु रूपतः । इच्छादि योगरूपेषु, अन्योऽन्यं भिन्नता स्फुटा॥१२३ परन्तु तेषु सर्वेष, मध्ये चासंख्यभेदता। तादृशभिन्नता हेतुः, क्षयोपशम उच्यते ॥१२४॥६ भव्यप्राण्यभिधानेन, अपुनर्बन्धकादिकः । जीवात्मा परिज्ञातव्यः, अन्यो नैव च सम्मतः।१२५ इति विशेषता ज्ञेया, योगधर्मे प्रवेशता। इच्छादियोगकार्याणि, कथ्यन्ते क्रमतः खलु ॥१२६ अनुकम्पा च निर्वेदः, संवेगप्रशमी तथा। दुःखितप्राणिनां बाह्याभ्यन्तरवस्तुदानतः ॥१२७॥ यथाशक्त्या च या दूरी, करणेच्छा सानुकम्पनम् । नैगुण्यपरिज्ञानेन, संसारचारकात् खलु॥१२८॥ विरक्तता तु निर्वेदः, संवेगः परिभाष्यते । मोक्षाभिलाषरूपो हि, संवेगः प्रणि गद्यते ॥१२६॥ अपरेच्छा न स्वप्नेऽपि, कदाचिदपि जायते ।