SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ [४७०] योगक्रियमाणं तु स्थानादि, इच्छायोगं निगद्यते । सदा सर्वदशायां च, उपशमप्रधानकम् ॥१०४॥ यथाविहितस्थानादितद्योगपालनं तथा। अर्थादङ्गस्य साकल्याद्विधीयमानस्थानकम् ॥१०॥ प्रवृत्तियोगरूपत्वं, प्रवृत्तिर्योगउच्यते । उपशमे प्रधाने च, स्थानादियोगपालने ॥१०६॥ बाधककारणानां च, यदा चिन्ता न विद्यते । योगः स स्थिरता रूपा, कथ्यते योगशास्त्रतः।१०७। स्थानादिसर्वचेष्टा सा, अन्येषां हितसाधिका । यदा भवेत्तदा चैव, सिद्धिर्योगो निगद्यते ॥१०८॥ तत्सर्वेषां च भावार्थः, स्पष्टरूपेण कथ्यते। स्थानादियोगप्राप्तानां, श्रुत्वा तु योगिनां कथाम् १०६ प्रीतिर्या मानसे जाता, इच्छायोगस्तु सम्मतः। स्थानादिपञ्चयोगानां पालनं दृढरूपतः ॥११०॥ प्रवृत्तिः सा तु विज्ञेया, प्रवृत्तियोगरूपिका । स्थानादिपञ्चयोगानां, यानि बाधकवस्तूनि ॥११॥ तदुभयचिन्तनं नैव, यत्र तत्स्थैर्ययोगकम् । स्थानादिपञ्चयोगेषु, अन्येषां हितचिन्तनम् ॥११२॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy