________________
-प्रदीप
[४६६] ज्ञातव्यौ शुभयोगेन, स्थानादियोगतावता ॥६५॥ प्रोक्तस्थानादियोगाश्च ये शास्त्रे परिदर्शिताः । इच्छा प्रवृत्तिः स्थैर्य च, सिद्धिर्भेदश्चतुर्थकः ॥६६॥ स्थानादियोग कर्तृणां, तद्दशायां कथानकम् ।। श्रुत्वा चान्तरिकी प्रीतिः, येषां च हृदये भवेत् ॥६॥ तेषां च शुभभावेन, योगानुष्ठानवृत्तिता । विधिपूर्वानुष्ठानं च, कुर्वाणं प्रतिप्रेमतः ॥१८॥ बहुमानस्तु कर्त्तव्यः, हृदयोल्लासवृद्धितः । तादृकार्ये च कर्तव्ये परिणतिः शुभा यदा ॥६६॥ येषां हृदि प्रजायेत, तादृशीभावना खलु । योगदशैव सा ज्ञेया, इच्छायोगस्वरूपिका ॥१०॥ भावार्थ:स्थानादि योगयुक्ताना, कथासुप्रीतिता सदा । विधिकर्तृ षु मानादिद्वारा सोल्लासमात्रकम् ॥११॥ किंचिदभ्यासयोगादि, विचित्रपरिणामकम् । आदघाने तु यैवेच्छा, तत्प्रधानं च योगकम् ॥१०२॥ द्रव्यक्षेत्राद्यसामग्र या, अडानां विकलेऽपि या। यथाविहितस्थानादियथाशक्तिप्रयोगतः ॥१०॥