________________
योगअविद्या कल्पितेष्टत्वानिष्टत्वपरिहारतः ॥८६॥ शुभाशुभत्ववस्तूनां, १प्रवृत्तौ समभावतः । सर्वदा भावनं सम्यक्, समता प्रणिगद्यते ॥८॥ परिस्पन्दस्वरूपेषु, विकल्परूपवस्तुषु । अन्यसंयोगवृत्तीनामपुनर्बन्धभावतः ॥८॥ मनोद्वारा निरोधे तु, वृत्तिसंक्षेपता मता। एतेषां पञ्चयोगानामन्त वो विचार्यते ॥८६॥ अत्र वर्णितस्थानादि, योगेषु च प्रवेशनम् । अनेनैव प्रकारेण, तन्मते योगरीतितः ॥१०॥ अध्यात्म नैकरूपं च देवसेवास्वरूपकम् । स्थानयोगे समावेषः, तस्यैव परिकीर्तितः ॥११॥ अध्यात्मजपस्वरूपस्य, समावेशस्तु वर्णके। जपं तु वर्णरूपं स्थादूर्णे वर्णस्वरूपता ॥१२॥ तत्त्वचिन्तनरूपस्य, अध्यात्मयोगकस्य वै । अर्थयोगे समावेशः, अतोऽध्यात्मं द्वियोगके ॥६॥ भावनायाः समावेशः, मन्तव्यस्त्रिकयोगके । ध्यानस्य तु समावेशः, आलम्बने सुयोगके ॥१४॥ वृत्तिसंक्षयतः साम्यौ योगेऽनालम्बने च तौ।