________________
[ ४६४ ]
* योग
तादृशकार्यकर्त्तव्ये, सिद्धश्चैव तृतीयका । तत्तत्सद्धर्मस्थानानामवाप्तिस्तात्त्विकी सदा ॥ ५२ ॥ सा सिद्धिः परिज्ञातव्या, सर्वदा सिद्धिमिच्छता । विनियोगस्वरूपं तु, प्रोच्यते योगतः सदा ॥ ५३ ॥ स्वप्राप्तधर्मस्थानानां यथोपायं परस्य च । सम्पादकत्वबुद्धिस्तु विनियोगो निगद्यते ॥ ५४ ॥ भावार्थ :
धार्मिक भूमिस्थानानां प्राप्तव्ये परिशीलता । अहिंसादिप्रधानानां तद्योग्योपायतः खलु ॥५५॥ स्वसिद्धौ परिज्ञातेऽपि परेषां प्राप्तिकार्यके । उपायपरिज्ञातव्ये, विनियोगस्तु कीर्त्तितः ॥ ५६ ॥ कति स्थानानि प्रोक्तानि, योगास्तु कतिधा मता । एतत्सर्वप्रकारस्तु, ज्ञानार्थं परिकथ्यते ॥५७॥ स्थानोर्णार्थाश्च ज्ञातव्या, आलम्बनं तथैव च । अनालम्बनता चैव, योगास्तु पञ्च कोर्त्तिताः ॥१८॥ एतत्पञ्चकयोगेषु, आयी द्वौ कर्मयोगको । अन्तिमत्रिकयोगास्तु, ज्ञानयोगा उदाहृताः ॥५६॥
१- कष्ट दूर किरण द्वारा ।