________________
-प्रदीप
[४६५]
आसनं स्थानशब्देन, ज्ञेयं पद्मासनादिकम् । प्रत्येकं हि क्रियारम्भे, काले सूत्रस्य जल्पने ॥३०॥ वर्णस्तूर्णे विज्ञातव्यः, अथार्थः परिदर्श्यते । शब्दाभिधेयबोधस्तु, अर्थशब्देन कीर्यते ॥१॥ बाह्यमूर्त्यादिध्यानं तु, आलम्बनं निगद्यते । रूपिद्रव्यविहीनं च, शुद्धचैतन्यमात्रकम् ॥३२॥ अनालम्बनताध्यानं, तद्भावार्थस्तु कश्यते । निर्विकल्पत्वचिन्मानसमाधिरूपमेव च ॥६३॥ रूपिद्रव्यस्य चालम्बरहितं परिज्ञायताम् । अनालम्बनध्यानं तु, हृदि सर्वत्र धार्यताम् ॥३४॥ स्थानं स्वयं क्रियारूपं, सूत्रोच्चारणमूर्णता । अतश्च स्थानवौं च, क्रियारूपावुदाहृतौ ॥६५॥ अर्थस्तु बोधरूपः स्याद्ध्यानमालम्बनं मतम् । शुद्धचैतन्यमानस्य, समाधिरूपमेव हि ॥६६॥ अनालम्बनता ध्यानं, त्रितयं योगरूपकम् । अन्त्यत्रियोग नाम्नैव, ज्ञानयोगस्तु कथ्यते ॥३७॥ भावार्थ:--मोक्षकारणभूताश्च, आत्मव्यापृतयःखलु । ज्ञानरूपास्तु ताः सर्वाः, त्रियोगे ज्ञानताततः ॥६॥