________________
-प्रदीप
www.
www
[४६३] यतः परिणते धर्मप्रवृत्ती, विघ्नशून्यता । विघ्नजयस्तु मन्तव्यः, विघ्नस्तु त्रिविधो मतः ॥४३ परिषहाः क्षुधातृष्णादयस्त्वधो निगद्यते । शारीरिकं तु रोगादि, द्वितीयं विघ्न मुच्यते ॥४॥ मनोविभ्रमविघ्नं तु तृतीयं परिकीर्तितम् । धार्मिकप्रवृत्तौ बाधा, कर्त्तव्ये विघ्नरूपता ॥४॥ यथा प्रयाणकर्तव्ये, मार्गे कण्टकप्रस्तरौ । देहज्वरादिरोगाश्च, स्वान्तेऽपि च दिशां भ्रमः ४६॥ तज्जयस्त्रिविधः प्रोक्तः, हीनमध्यमभेदतः। उत्कृष्टभेदतश्चैव, सर्वथा परिज्ञायताम् ॥४७॥ कष्टे पतितजीवानां, दानेन दुःखिनां सदा । दयया चा भावेन, दुःखापहारतां भजेत् ॥४८॥ हीनगुणे च कत्तव्या, सर्वथा दुःखनाशता। सिद्धिस्तु निगुणे चैव, प्रथमा परिकीर्तिता ॥४६॥ पूर्वोक्तधर्मस्थानस्य, परोपकारबुद्धितः । अहिंसादेश्च प्राप्तव्ये, द्वितीया परिभाषिता ॥५०॥ अतिचारविहीने च, गुर्वादोचगुणाऽऽयके । विनयभक्तिता कार्या, बहुमानादिना युता ॥५१॥