________________
योग
[४६२] विनियोगश्च तत्पश्च, भावानां सन्निकर्षता। यत्रैव तादृशो धर्मव्यापारपरिशुद्धकः ॥३५॥ स योगः परिमन्तव्यः, प्रतिबन्धस्तु नो कदा । विपरीतस्वभावानां, भावानां नैव योग्यता ॥३६॥ ताः क्रिया योगरूपा न, ज्ञातव्या ज्ञानिना सदा ।' पञ्चाशयेन संयुक्ता, भावप्रधानता यतः ॥३७॥ प्रोक्तं योगविंशिकाटीकायाम् :-- प्रणिधिप्रवृत्तिविघ्नजयसिद्धिविनियोगभावतः प्रायः धर्म राख्याताः शुभाशयाः, पञ्चधाऽत्र विधौ ३८॥ प्रणिधानस्वरूपम् :स्वापेक्षया च नीचानां, जीवानां प्रतिद्वषता । कदापि नैव कर्तव्या, किन्तु परोपकारता ॥३६॥ तां बुद्धिं मानसे धृत्वा, वार्तमानिकधार्मिके ॥ कर्तव्यभूमिकास्थाने, प्रेरणं प्रणिधानता ॥४०॥ वार्तामानिकधर्माणां, स्थानानां समुद्देशतः। कर्त्तव्यतदुपायानां, पद्धतेयुक्तता तथा ॥४१॥ पश्चालयशून्यतातीव्रप्रयत्नः प्रवृत्तिर्मता । योगोपयोगभावेषु सा शुद्धा परिकोर्तिता ॥४२॥