________________
[४५६ ]
योगअहो मोहस्य महात्म्यं सर्वे, मुह्यन्ति प्राणिनः । ज्ञानदृष्टेरभावेन, विकल्पयन्ति तादृशम् ॥१०॥ नृत्यन्ति खलु संसारे, अनेकरूपधारिणः। माता भूत्वा कदाचिच्च, भवति पितृतां कदा ॥१०१ कदा भ्रातृस्वरूपं च, धृत्वा तु स्नेहभावनाम् । कुर्वन्ति क्लेशभावं च, तेनैव सह सर्वदा ॥१०२॥ एवं सर्वक्रियां दृष्ट्वा, योगिनो ज्ञानचक्षुषा । अनित्यभावनां धृत्वा, वैराग्यं मानसे भजेत् ॥१०३ विषयभोगसामीप्ये, इन्द्रियं नैव प्रेषयेत् । समभावेन चात्मानं, भावयन्ति च सर्वदा ॥१०॥ सर्वज्ञभाषितं धर्म, विना स्वस्मिन्न मन्यते । गच्छन्ति तं समाश्रित्य, भव्या मुक्तिपथं सदा १०५ रागद्वेषौ परित्यज्य, विकारभावनां तथा । शुद्धात्मानो गुणे रन्तु, विशुद्धां भावनां भजेत् १०६ प्रत्याहारस्तदा ज्ञेयः, गुणानां शुद्धदर्शने । केवलतत्त्वरूपस्य, प्रकाशे चोद्यतो भव ॥१०७॥ रत्नत्रयं विना नैव, अन्योपायो निगद्यते । सर्वेऽसारस्वरूपाश्च, उपायाः परिभाषिताः॥१०॥