________________
GrowriM
مرحرحرر عسير مرمر مرمر مرمرمرمرمي
-प्रदीप
[४५५] वर्षाकालेषु बालेश्च, धूलोगृहं वितन्यते ।
चेष्टां च तादृशीं दृष्ट्वा यूनां घृणास्पदं भवेत्॥६१ प्राकाले कृतवन्तस्ते, तादृक्कियां च प्रेमतः । अधुना ज्ञानसञ्जाते, तेषां घृणा प्रजायते ॥१२॥ शकृच्छंथनचेष्टां च, कुर्वन्ति बालका यथा । तां दृष्ट्वा चाष्टवर्षाणांवालानां मानसे घृणा ॥३॥ युवानो युवतीनां च, तुष्यन्ति प्रथमागमे । विकारभावनाजन्यां, कुर्वन्ति भोगचेष्टिकाम् ॥१४॥ तां दृष्ट्वा मध्यमाश्चैव पुत्रादीनां च क्लेशतः। घृणां कुर्वन्ति जल्पन्ति, लज्जाहीना इमे जनाः॥९॥ स्वयं ताइक क्रियां कृत्वा, भोगसम्भोगकारिकाम् । स्त्रीपुत्रादिकक्लेशेन, अधुना विषसन्निभा ॥१६॥ यदा दृष्टिपथं याति, सा क्रिया दुःखदायिका । प्रतिभाति च स्वान्ते सा तदा दुःखं चिरं भवेत्॥६७। गात्रशैथिल्यसद्भावे, मलस्रोतो हि चाङ्गतः। बालादिकाश्चतदृष्ट्वा, हसन्ति तादृशान् जनाना। योगिभिश्चैव सर्वा या, या क्रिया परिदृश्यते । तां दृष्ट्वा मोहतत्त्वस्य, गदन्त्यसारता सदा ॥६६॥