________________
-प्रदीप
[ ४५३ ]
प्राणायामस्य चाभ्यासः, कत्तव्यः शांतचित्ततः ७३ ॥ द्वादशसहस्राणां च प्रणवानां जपे सति । प्रतिकरणमुद्राणामभ्यासे नैव सिध्यति ॥७४॥ श्वासोच्छ्वास लयोद्भावे, स्थाने च चित्तवृत्तीनाम् । स्थिरीकरणकर्त्तव्ये प्रत्याहारस्तु सिध्यति ॥ ७५॥ प्रत्याहारस्य चाभ्यासे, इन्द्रियाणां च वश्यता । स्वान्तं च निर्मलं भूयात्तपो वृद्धिस्ततो भवेत् ॥७६॥ दीनताया विनाशः स्याद्दे हे चारोग्यता भवेत् । समाधीनां प्रवेशे च, योग्यता परिजायते ॥७७॥ सम्यक् श्रद्धा विना नैव, मिथ्यात्वस्य न मन्दता । मिथ्यात्ववासनासत्त्वे, सम्यग्ज्ञानं न जायते ॥७८ आश्रवबन्धरूपार्णा, तत्त्वानां ज्ञानशून्यतः । संवररोधताऽभावे, प्रत्युत बन्धता भवेत् ॥ ७६ ॥
A
अतः प्रोक्तः क्रमो नैव प्रत्याहारस्य मन्यताम् । रागद्वेषस्य सद्भावे, प्रत्याहारः कुतो भवेत् ॥८॥ शुद्धा भागवती दीक्षा, येन प्राप्ता महात्मना । अतिचारविहोना सा, प्रत्याहारस्तदा खलु ॥८१॥ दीक्षास्वरूपम् :