________________
[४५०]
योगतादृशमुखसद्भावाद, मृत्युं प्राप्नोति हस्तिकः ॥४८ देहसुखनिमित्ते च, ब्रह्मदत्तादयो यथा । नारकयातनागाढां प्राप्ता कर्मप्रभावतः ॥४६॥ अतः क्षणिकदेहाथ, शुद्ध सुखं न प्रार्थ्यते । योगिवेद्यसुखार्थं च, सदा यत्नो विधीयताम् ॥५० भोगीयदि विनोदताहेतु, सङ्गीतं श्रोतुमिष्यते । दुर्लभं तद्धि देवानां, तादृशं श्राव्यते मया ॥५॥ यथा भोगविलासानां, प्राधान्यं कृष्णमन्दिरे । दुर्लभा रासलीला च, जायते तत्र सर्वदा ॥५२॥ तां श्रुत्वा योगिनः स्वान्तं, मुह्यति रासनाटके । कामरागप्रधानं च, मोलति साधनं सदा ॥५३॥ योगोयत्रैव रासलीला स्यान्न, तद्धि देवमन्दिरम् । किन्तु केलिगृहं ज्ञेयं, यथा च वाममार्गिणाम् ॥५४ कामरागस्य पुष्टित्वं, यत्रैव परिजायते । तद्धि भोगप्रधानं स्यादीश्वरता मता वृथा ॥५५॥ कामभोगिषु चेशत्वं, मन्यते यदि धूर्तराट् ।