________________
-प्रदोप
[४४६] निर्लिप्त सर्वभावे च, लिप्तेच्छा जायते कथम् ॥४० अभिलाषो न कुत्रचित्सर्ववस्तुषु सर्वदा । कथं च दृश्यभावेषु, दृष्टेच्छा सम्मुखा भवेत् ॥४१ भोगीग्रीष्मतापेन संतप्ते, भूतले गम्यते कथम् । प्रस्वेदजलसंलिप्ते, गात्रे च सुखता कुतः ॥४२॥ अतस्तदपनोदार्थ, छायावायू करोम्यहम् । तच्छीतत्वप्रभावेन, सर्वत्र सुखता भवेत् ॥४३॥ भूतले शोतसंयोगाद् गमने सुखकारिता। गात्रे च वायुयोगेन, प्रस्वेदो नैव जायते ॥४४॥ अतो मदीययाचां च, स्वीकुरु योगीराट् सदा। छायावायू प्रकुर्वाणो, दुःखलेशो न किंचन ॥४॥ योगीत्वगिन्द्रियाभिलाषे च, सर्वथा रहिते मम ॥ विजिते भाववेदे च, द्रव्यस्य नैव शक्तिता ॥४६॥ स्वात्मसुखनिमित्ताय, त्यक्ता च देहसुखता । क्षणिकं देहजं ज्ञेयं, सुखं संसारिकं किल ॥४७॥ योगलीने च योगीन्द्र, सुखेच्छा तादृशी नहि ।
२६