________________
wwwww
anawwwwwwwwwww
-प्रदीप
[४४७] तत्प्रवाहित्व ज्ञानाख्यः, राजयोगः शुभो मतः ॥२५ चित्तमिन्द्रियजेतव्ये, शुद्धहेतुश्च मन्यते । इन्द्रियविजये चातः, उपायो मुख्यतो मतः ॥२६॥ प्रत्याहारोपयोगित्वाच्छुद्धयोगविचारता। इन्द्रियजयता हेतु वक्तव्यं प्रतिपाद्यते ॥२७॥ भोगीवक्तव्यम्:विषयपरिपौषित्वं, संसारसुखसाधनम् । मदीय पुष्पसारत्वं, गृहाण दुःखनाशनम् ॥२८॥ भोगिनस्तादृशं वाक्यं, विषयपुष्टिदं सदा। श्रुत्वा परमयोगीन्द्रः, जल्पति निर्मलं वचः ॥२६॥ इच्छाविहीन योगीन्द्रे, कोहशी तव प्रार्थना । संयोगमूलजीवेन, प्राप्ता दुःखपरम्परा ॥३०॥ अभिलाषविहीना च, सर्वथा नासिका सम । विजिते भाववेदे च, द्रव्यार्थ नैव याचना ॥३१॥ अतः सुगन्धता युक्ता, स्वाधीना गह्नरी मम । प्रार्थना गन्धसम्बन्ध, गृह्यते नहि कहि चित् ॥३२॥
१ त्वदीया गन्धसम्बान्ध प्रार्थना