________________
योग
[ ४४६ ]
यथा च राजमार्गेषु, गर्ता च पतिता यदा । पूरणीयास्तदा सा च येन केन प्रकारतः ॥ १८॥ सुवर्णे राजतैश्चैव मृत्तिकया च लौहकः । येन केन प्रकारेण, पूरणीया निगद्यते ॥ १६ ॥ तथा क्षुधात्वगर्ताया, पूरणं नैकरूपतः । परन्तु रागद्वेषौ न, कर्त्तव्यौ सर्वथौचितौ ॥२०॥ रूपे रसे च गन्धे च शब्दे च स्पर्श वस्तूनि । मनोहारिणि चान्यत्र, रागद्वेषविहीनता ॥ २१ ॥ तत्रैव रागद्वेषाणामभावे विजयो भवेत् । प्रत्याहारस्तु विज्ञेयः रागादि वर्जिते हृदि ||२२|| तथा चौक्तं स्तुतौ:
संयतानि तवाक्षाणि न चोच्छुङ्खलितानि च । इति सम्यक् प्रतिपद्य, त्वयेन्द्रियजयः कृतः ॥२३॥
१
प्राणायामाहठाद्याश्च योगा नं चित्तरोधने । निश्चितोपायता शून्या, तदेन्द्रियजयः कथम् ॥२४ अध्यात्मभाववृद्धित्वाद्, समता परिणामता ।
? न क्षमा ।