________________
-प्रदीप
[४४५] धर्मध्यानं न मन्तव्यमपि तु चारौद्रकम् । अधोगमनहेतुस्तत्किन्तु दुष्टविचारजम् ॥६॥ अतस्तादृशध्यानं च, त्यक्त्वा वैधर्मध्यानके । प्रत्याहारं क्रमेणैव, रोहणे दुःखनाशनम् ॥१०॥ सम्मेताचलनिर्वाणं, प्राप्त यैः परमात्मभिः । तान्ध्यात्वा हृदये सम्यक् गुरुदेवप्रसादतः ॥११॥ प्रत्याहारस्य व्याख्यानं, क्रियते सुखहेतवे । हरिभद्रादि पूज्यानां, ग्रन्थानामवलम्वतः ॥१२॥ इन्द्रियाणां निवृत्तिस्तु, विषयेभ्यश्च सर्वथा। प्रत्याहारः स विज्ञेयः, रहस्यं परिकीर्त्यते ॥१३॥ व्युत्थानध्यानतारूपदशा साधारणं तथा । वस्तुस्वभावचिन्तातः, स्वकीय प्रतिपत्तितः ॥१४॥ प्रयुक्त रागद्वेषाणां, फलस्थानुपधानता! तदेवेन्द्रियवस्तूनां, परमोजय उच्यते ॥१५॥ चक्षरुद्घाटनेनैव, वस्तूनामवलोकने । कृतेऽपि रागद्वेषौ न, तदेन्द्रियजयो भवेत् ॥१६॥ स्वादकाले च वस्तूनां,जीया चर्विते सति । अस्वादे रागद्वेषौ न, तदेन्द्रियजयो भवेत् ॥१७॥