SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ ॥ प्रत्याहारस्वरूपवर्णनम् ॥ यमनियमताप्राप्तिः, पुण्योदयेन जायते। प्राणायामासनानां च, प्राप्तिस्तु दुर्लभा भवेत् ॥१॥ सर्वयोगाङ्गता ज्ञेया, सम्यग्दर्शनपूर्विका। अग्रे एकाङ्कता शून्यं, सहस्रविन्दुता यथा ॥२॥ दर्शनपूर्वकं येन, योगाङ्क स्वायती कृतम् । ते एवसंमृतौ श्लाघ्याः;महात्मनाश्च ते मताः ॥३॥ प्रोक्त योगक्रमेणैव, स्वात्मशुद्धिस्तु जायते। विना क्रमिकता ज्ञानं, आत्मवञ्चकता भवेत् ॥४॥ सप्ततलीय हर्येष, श्रेणिक्रमेण रोहणम् । विना क्रमं तु गन्तारः, पतन्ति च ततोऽप्यधः ॥५॥ महाव्रतयमाख्यं च, गृहीतं येन नो कदा । ते यदि ध्यानकर्ता चेत् कस्याग्रेब्र महे तदा ॥६॥ कचित्क्रमस्य शीघ्रत्वं, यथा च भरतादिषु । मरुदेव्यादि मातृष, तथा चान्यत्र भाव्यताम् ॥७॥ सर्वथा व्रतशून्येषु, जनेषु नैव ध्यानता । किन्तु दुनिता ज्ञेया, संसारपरिपोषिका ॥८॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy