________________
[ ४३६ ]
योग
आन्तनिवृत्तिरत्रैव तद्विपरीतके पदे ॥ ३४३ ॥ अवेद्यवेद्यनामाख्यो, भवाभिनन्दिजीवकैः । बजे णाभेद्यको ज्ञेयः, जैनशासनबाह्यकैः ॥ ३४४॥ लोकार्पण्यमात्सर्य, मायिकता जुषः सदा । दया पात्रत्व संयुक्तः, भवेन संभृतः सदा ॥ ३४५॥ एतादृशमनुष्याणां निष्फलारम्भता भवेत् । तादृशां च गुणानां च अवेद्यपदता हढ़ा ॥ ३४६॥ सत्सङ्गागमतस्त्वेभ्यः तेऽपि बहिर्मुखाः सदा । तैश्च सत्सङ्गतिर्नैव प्राप्यते पापयोगतः ॥ ३४७ ॥ कुतर्कानां सहायेन, हस्त्यागमनकालिके । एकान्ते चोपविश्यैव, बठरैः परिभाव्यते ॥ ३४८ ॥ इनिष्यति च प्राप्त चेत्पूर्वं हस्तिपकं तदा । अप्राप्तं यदि हन्ता चेत्तदा तु सर्वजन्तुनः ॥ ३४६ ॥ कथं दूरेऽपगच्छामि भयमत्र न विद्यते । प्राप्ता प्राप्तविचारे च कर्त्तव्या समये तदा ॥ ३५० ॥ हस्ती चागत्य तत्रैव, शुण्डादण्डेन तं जनम् ।
उत्पाट्य परिक्षिप्त्वा च पादाभ्यां परिपीडितम् ॥३५१
"
नदा विचारदृष्टिना, केनचिच्च जनेन वै ।
,