________________
- प्रदोप
[ ४३५ ]
प्राणसङ्कट सम्प्राप्तौ धर्मेषु दृढ़तां भजेत् ॥ ३३४ ॥ चतुर्गतिकसंसारे, प्राणः सर्वत्र योनिषु
"
सुलभेन प्रप्राप्यन्ते धर्मस्तु तत्र दुर्लभः || ३३५॥ धमार्थप्राणत्यागे येषां मानस भावना |
प्राणायामस्य योग्यास्ते, इतरे नामधारकाः ॥ ३३६ ॥ मधुरोदकसादृश्यं, तत्व श्रवणभावनम् । जायते यत्र काले च तदा तद् दृष्टिता भवेत् ॥ ३३७ क्षारोदकस्य संकाशं संसारं परिमन्यते । गुरुभक्तिरद्रोहेण, बीजरोह समामता ॥ ३३८ ॥ सम्यक् श्रद्धां विना नैव, सूक्ष्मबोधोऽत्र सम्भवेत् । वेद्यसंवेद्यके चैव, पदे तु तादृशो मतः ॥ ३३६ ॥ अवेद्ये तु पदे नैव, बोधः स्वप्नेऽपि जायते । अतो हि वेद्यसंवेद्यपदार्थे यत्नतां भज || ३४० ॥ वेद्यबन्धुस्तु विज्ञेयः, मोक्षनिमित्तकः सदा । तज्ज्ञानं चैव संवित्तिः, नयनिक्षेपतः शुभा ॥ ३४१ ॥ वेद्य संवेद्यप्रामाण्यं, ग्रन्थिभेदनतो मतम् ॥ पापप्रवृत्तिछेदस्तु तत एव प्रजायते ॥ ३४२ ॥ तप्तलौह स्वरूपस्य पदधृति समा
मता ।
"