________________
[ ४३४ ]
योग
प्रमादानां कषायाणा, यद्यु क्तयोगवस्तूनाम् ॥ ३२५॥ हिंसाऽसत्यत्व चौर्याणामब्रह्मममतादीनाम् । अनादिकालशत्रूणां त्यागे तु भावरेचकः ॥ ३२६ ॥ पूर्वोक्तदोषरूपाणां निष्कासे गुणपूरणम् ।
श्रद्धात्वरित्यादीनां दृढरूपेण पालनम् ॥ ३२७॥
कषायपरित्यागेन, प्रमादपरित्यागतः । समितिगुप्तिसेवातः, महाव्रतस्य पुष्टिता ॥ ३२८ ॥ उपयोगेन धर्मः स्थात्क्रियातः कर्म एव च । परिणामेन बन्धस्तु विज्ञेयो जैनशासने ॥ ३२६॥ अहिंसा सत्यताऽस्तेयब्रह्मव्रतस्य पालनात् । मूर्च्छायाः परित्यागेन, दोषाणां त्यागता मता ३३० दोषाणां सर्वथा त्यागे, रेचके शुद्धता भवेत् । गुणानां पूरणेनैव, पूरक: परिभाषितः ॥ ३३९॥ यदंशे गुणसम्प्राप्तिः पूरकता तु तादृशी । यावद्दोषस्य नाशः स्यात्तावद्रेचकता मता ॥ ३३२ ॥ वैराग्याभ्यासद्वारेण, गुणानां स्थिरता भवेत् । यदंशे गुणस्थैर्यं स्यात्कुम्भकस्तादृशो मतः ॥ ३३३॥ धर्मार्थं प्राणता त्याज्या, किन्तु धर्मो न त्यज्यताम्