________________
[ ४३२]
योगअष्टप्रवचनेनैव, विशुद्धं परिपाल्यताम् ॥३०७॥ ततो नियमसद्भावः, तस्यैव परिशुद्धये । आसनं दृढध्यानार्थ, प्राणायामोपयोगि च ॥३०॥ विशुद्ध प्राणयामस्थ, स्वरूपमपि प्रोच्यते। यशोविजयप्राज्ञानां, ग्रन्थानामनुसारतः ॥३०॥ हठयोगस्तु नाम्नैव, हठभावप्रकाशकः । सिद्धिर्हठेन कस्यापि, जायते न कदाचन ॥३१०॥ गुदातो दुग्धपानेऽपि, आत्मनि वद किं भवेत् । तत्कार्य वालिशानांच, न तु विशुद्धयोगिनाम् ३११ अज्ञानिजनतुष्ट्यर्थ, लोकप्रतारणाय च । संसारोदधिपाताय, स्वपरदुःखहेतवे ॥३१२॥ आत्मीय ज्ञानशून्येन, अज्ञानिना वितन्यते । तक्रियास्वादरो नैव, कर्तव्यो ज्ञानिना कदा ॥३१३ हठेन कार्यकत्र्तव्ये, मिथ्यात्वं परिजायते । मिथ्यात्वं सर्वथा त्याज्यं श्रद्धात्वधनकांक्षिणा ३१४ प्रतिपादितमन्यत्र, तं योगं नैव धारयेत् । भवभ्रमणहेतुः स्यान्मिथ्यात्वपरिपोषकम् ॥३१५॥ वस्तुगत्या विचारे तु, सत्यं योगस्वरूपकम् ॥