________________
-प्रदोप
[४३१] क्षणं च कुम्भकं कृत्वा, नासाभ्यां रेचकं पुनः २६८ प्राणायामक्रियातश्च, मोक्षप्राप्तिः प्रदर्शिता। . वन्ध्यापुत्रसमा सा च, ज्ञातव्या सर्वसज्जनः २६६ प्राणायामेन मोक्षश्चोदन्ययोगाङ्गता वृथा । प्रत्याहारादिकं व्यर्थं धारणा सफला कुतः ॥३०॥ ध्यानसमाधिता नैव, कर्तव्या च कदाचन । केवलप्राणयामेन, मोक्षप्राप्तिर्वितन्यताम् ॥३०१।। तादृशप्राणयामस्तु, विग्रहे कष्टदो मतः । केवल देहदान्त्या च न कोऽपि गुणआत्मनि ।३०२ सम्यग्ज्ञानेन सार्धं च, सम्यक्रिया न यत्र वै। तत्र कथं शिवाप्तिः स्यादिति स्वान्ते विचार्यताम् ३०३ सर्वथा निष्फलो नैव, प्राणायामो निगद्यते। यथा पातञ्जलैः प्रोक्तः, तथा न जैनदर्शने ॥३०॥ केवलवायुनिष्कासे, प्रवेशे मोक्षता न हि । किन्तु सत्यस्वरूपं च, प्राणायामस्य ज्ञायताम् ॥३०५ योगाङ्ग च क्रमेणैव, आरोहे सिद्धता भवेत् । सम्यग्दर्शनपूर्वेण, प्रथमं च महाव्रतम् ॥३०६॥ अतिक्रमादि दोषेण, रहितं पालनं मतम् ।