________________
[ ४३०
कुत इति च पृष्टव्ये, उत्तरंतु विधीयते ॥ अतोऽपि प्रथमस्तालः, तालोपरि च श्वासता ॥ २६० श्वासोपरि प्रश्वासः स्यादिति क्रमो निदर्शितः । किन्तु कदापि प्राबल्याद्रेचकं पूरकं च न ॥ २६९ ॥ रेचककालवैशेषे, सतर्कसावधानता । यावच्छनैः शनैश्चैव, श्वासस्तु परित्यज्यते ॥ २६२॥ हस्तारूढांश्च सक्तूश्च, निःश्वास वायुयोगतः । उड्डापनाय शक्नोति, नैव तथा वितन्यताम् ॥ २९३॥ प्राणायामस्य काले उपविश्य यथा सुखम् । च, मेरुदण्डं गलं चैव, मस्तकं वक्रता हितं ॥ २६४ ॥ भ्रकुत्यां दृष्टितां धृत्वा ततः कुम्भकतां भजेत् । किन्तु सिद्धमहात्मा च तत्सहायं परित्यजेत् ॥ २६५ शीतली प्राणायामस्य, सहायताधिकां भजेत् । शीतल्याश्च सहायेन, सर्वकार्य करोभवेत् ॥ २६६॥ प्रोक्तं च सर्वदा साधयेद्योगी, शीतली कुम्भकं शुभम् । अजीर्णकफपोताश्च जायन्ते नैव तस्य वै ॥ २६७॥ जिह्वाया वायुमाकृष्य, उदरे पूरयेच्छनैः ।
योग
—