SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ -प्रदोप [ ४२६] चतुर्दलं च पद्म तु, तदवस्थासु तत्र च ॥२८२॥ कुण्डली स्वदृढं स्थानं, निश्चयेन परित्यजेत् । क्रमेण कुण्डली चैव, षट् चक्रभेदद्वारतः ॥२८३॥ सहस्रदलपमं च, गत्वालयं च प्राप्नुयात् । तत्र शिवप्रभोर्योगः, मुक्ति क्रिया स्वरूपकः ।२८४। तथा तस्य दशायां च, स योग्य खंडज्ञानवान् । निरञ्जनजगन्नाथरूपं प्राप्य शिवं भजेत् ॥२८॥ प्राणायामः समायोगः, प्राणायाम इतीरितः । प्राणायाम इति प्रोक्तः, रेचकपूरकुम्भकैः ॥२८६॥ - योगि यागल्वयः॥ पूर्वोक्त संख्यया चैव प्राणायामे कृते सति । यदि तु कष्टप्राप्तिः स्यादष्टषोड़श वारतः॥२८॥ जापं कृत्वा च कर्त्तव्यः, प्राणायामः सुनिश्चयात् । यत्र जापक्रिया नास्ति, तत्रेक द्वित्रिवारतः ॥२८॥ गणनायां कृतायां च, प्राणायामो वितन्यताम् । अन्यथा कार्यकर्त्तव्ये, फलप्राप्तिन जायते ॥ २८६॥ १ शक्तिः । २ पूरक।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy