________________
[ ४२८]
योगहाकिनी च महाशक्तिः, चक्राधिष्टातृ देवता २७३ द्विदलपङ्कजोवं च, ब्रह्मरन्ध्रके इंगला। पिंगलासुषुम्ने चैव, संगमस्थानकं भजेत् ॥२७४॥ तत्तीर्थराजरूपत्वं, प्रयागं परिकीर्तितम् । तत्रैव स्नानकर्त्तव्ये, साधको मुक्ततां भजेत् ॥२७५ ब्रह्मरन्ध्रोपरिष्टाच, सहस्रदलपङ्कजम् । तत्स्थानाभिख्यता ज्ञेया कैलाशशुद्धरूपिका ॥२७६ तत्र स्थाने महादेवः, शिवः सदा विराजते । नकुलाभिधता वाच, नकुलाख्यं च कीर्तितम् २७७ नित्य विलासिता युक्तः, क्षयवृद्धि पराङ्मुखः । यः साधकः स्वकीयानां, चित्तवृत्तेश्च दाढ्यं तः २७८ लीनं करोति तस्यैव, अखण्डज्ञानरूपकम् । निरञ्जनजगन्नाथस्वरूपं लभते सदा ॥२७॥ सहस्रदलपद्माच, निर्गतामृतधारिकाम् । यः पीबति सदा योगी जयति मृत्युतां स च ।२८०॥ सहस्रदलपद्म च, कुलरूपा तु कुण्डली । महाशक्तौ लयं याति, तदा सृष्टुश्च सर्वथा ।२८१॥ परमेशे लयं विद्याद् मूलाधारे तथैव च ।