________________
[ ४२६ ]
योग
स्वयम्भूलिङ्गस्पोर्ध्वं च पद्मकेसर सदृशम् ॥ २५७ ॥ शङ्खवेष्टनयुक्तं च, सार्धत्रिवलयाकृति । सर्ववल्कुल कौण्डल्यं, स्वास्यात्स्वयंभू लिङ्गतः | २५=। निद्रितं मुखमावृत्य, तत्प्रबोधनिमित्तकम् । गोप्यं च गुरुगभ्यं तद्भवतीति विज्ञायताम् ॥ २५६ ॥ द्वितीयचक्रस्याभिख्यं, स्वाधिष्ठानाख्य पद्मकम् । तत्स्थिति लिङ्गमूले स्याद्, बभमयरलादिकम् । २६० षड्वर्णदल संयुक्तं, रक्तवर्णेन संयुतम् ।
तत्र बालाख्य सिद्धानां स्थितिर्देवी च राकिनी २६१ तृतीयं मणिपूराख्यं, चक्रं स्यान्नाभिमूलके । डढणतथदाद्यानि, दशवर्णानि तानि वै ॥२६२॥ सुवर्णमय वर्णानि राजन्ते दशपत्रतः । यत्र रुद्राक्ष सिद्धाख्यलिङ्ग सर्वप्रकारतः ॥ २६३॥ मंगलं प्रविधीयेत, यत्र परमधार्मिकी । लाकिनी देवता चैव सर्वरूपैर्विराजते ॥ २६४॥ चतुर्थं हृदिस्थं ज्ञेयं, चक्रमनाहतं तथा ।
१ टठडढण तथदधन ।