________________
-प्रदीप
[४२५]
कुलकुण्डलिनी नाड़ी, प्रबोध्य चक्रद्वारतः ॥२४॥ सुषग्ना प्रथमे चैव, प्रवाह्य ब्रह्मररन्ध्रके। उपरिष्टाच साहस्रदलकमलसंस्थिते ॥२४६॥ परमशिवरूपे च, लयं करोति मुख्यतः। लयकर्त्तव्यतोद्देशः, प्रथमः परिभाषितः ॥२५०॥ प्रथमचक्रनामाख्यं, मूलाधारकपद्मकम् । सुषुम्नाकन्दसंधौ च, तत्स्थितं परिभाव्यताम् २५१ वशषसाश्चतुर्वर्णाः, दलसमाः प्रकीर्तिताः । रक्तवर्णस्वरूपाश्च, चक्राधिष्टातृ डाकिनी ॥२५२॥ आधारपद्मकर्णिकागहरे वजूनाडिषु । मुखे त्रिपुरसुन्दर्याः, वासस्थानं त्रिकोनकम् ॥२५३॥ शक्तिपीठकनामाख्यं, तन्मृदुचपला समम् । तत्र कन्दर्पनामाख्य, वायुनिवासस्थानकम् ॥२५४ सोऽपि जीवधराभिख्यः, बन्धपुष्पसमो मतः । कोटिसूर्यप्रकाशाढ्यः, शक्तिशाली च सम्मतः २५५ त्रिकोनशक्तिके पीठे, स्वयंभूलिङ्गकं वसेत् । पश्चिमास्ये च तप्तानां, सुवर्णानां च सादृशम् २५६ मृदुकं ज्ञानध्यानाना, प्रकाशकत्व संयुतम् ।