________________
[४२४]
योग
यत्र नाडिसहस्र च, द्वासप्ततिकमानके । निष्कास्य नाडिका तस्मात्सर्वदेहे च प्राप्यते ॥२४० तासां मध्ये च योगेषु, नाडिनयप्रधानता। इङ्गले पिङ्गले चैव, सुषम्ना चाभिधानकाः ॥२४॥ ईडा भोगवती गङ्गा, पिङ्गाला यमुना नदी । ईडापिङ्गालोमध्ये, सुषुम्ना च सरस्वती ॥२४२॥ प्रणवाकृति रूपा च, सुषुम्ना धनुषाकृतिः। ईडापिङ्गलमध्यत्वाद् मेरुदण्डान्तकं नयेत् ॥२४३॥ तत् स्थानात्पृथग्भूत्वा, वक्राकारं च धारयेत् । भ्रू युगलोर्ध्वमीडाभिः, पिङ्गलाभिस्तथा सह ।२४४॥ सङ्गता ब्रह्मरन्ध्रास्ये, ब्रह्मरन्ध्रपर्यन्तकम् । ईडा पिङ्गलसादृशी, सुषुम्ना मूलकन्दतः ॥२४॥ निर्गताब्रह्मरन्ध्रान्तपर्यन्तं परिगच्छति । चानेनैव प्रकारेण, नीत्वा मूले च कन्दके ॥२४६॥ ब्रह्मरन्ध्रकपर्यन्तं, विस्तृता सुषुम्नादितः। नाडिकायाश्च षड्ग्रन्थि, षट्चक्राभिख्यतां वहेत् २४७ योगक्रियापद्वारेण, मूलाधारस्थिता तथा ।
१ षट्चक्रवारतः