SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ [४२२] योगशरीरे स्वस्थता तस्य, दृढ़रूपा प्रजायते । रोगिमनुष्यमात्रैश्च, चित्तकाम्यं न तन्यते ॥२२२॥ तथोच तत्त्वज्ञाने च, स्थिरध्यानं न जायते । अतो योगस्य सिध्यर्थ, प्रारंभकालिके तथा ॥२२॥ आसनाभ्यासकर्त्तव्यः, यतो देह दृढ़ भवेत् । चित्ते सुस्थिरता चैव, जायते योगभावतः ॥२२४॥ श्वासानां चैव व्यायामः प्राणायामः स कथ्यते । आलस्यमूढ़तादीनां, देहदुर्बलवस्तूनां ॥२२॥ प्राणायामेन नाशः स्यात्प्राणायामस्त्वतो मतः। हठयोगस्य भेदाश्च, कथ्यते हठयोगतः ॥२२६॥ षट्कर्मासनमुद्राः प्रत्याहारप्राणसंयमौ । ध्यानं समाधि रंगानि, सप्तस्यु हठयोगके ॥२२७॥ धौतिर्वस्तिस्तथा नेतिलौ किकी त्राटकं तथा । कपालभातिश्चैतानि, षट्कर्माणि समाचरेत् ॥२२८॥ आसनं पूर्वप्रोक्तं च, मुद्रा तु प्रतिपाद्यते । महामुद्रा नभोमुद्रा, जालंधराख्य बन्धकः ॥२२६॥ उड्डीयानमहाबन्धौ, मूलषन्धश्च वेधके । विपरीतकराश्चैव, खेचरी योनिमुद्रिका ॥२३०॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy