________________
rrrrrrrrrrrrrrrrrrrrrrn.
-प्रदीप
[४२१ ] शब्दस्पर्शरसानां च, गन्धवर्णस्य वस्तुनः । इण्द्रियविषयाणां च, बाह्यविषयता भवेत् ॥२१३॥ सङ्कल्पप्रविकल्पानां, विषयो मानसो मतः । तेषां च परित्यागे च, कर्तव्ये प्राणमार्गतः ॥२१४॥ स्वत एवावरोधः स्यात्प्राणायामः स तूर्यकः । प्रास्त्रे दर्शिते प्राणायामे च प्राणवस्तूनाम् ॥२१५ निरोधेन मनोरोधः, संयमो मानसो मतः । मन इन्धियरोधाश्च, प्राणसंयमता भवेत् ॥२१६॥ अत्र प्राणस्य रोधार्थ, निर्दिष्टं स्थानकं नहि । यत्र कुत्रापि स्थानेषु, यथेच्छं परिरुध्यताम् ॥२१७॥ तथा च काल संख्यायाः विधानमपि नो भवेत् । मात्राणामपि संख्यायाः विधानं नहि सर्वथा ॥२१८ प्राणायामस्य संसिद्धौ, मनः स्थैर्य प्रजायते । धारणानां च तेषां वै, सामर्थ्यं सर्वथा भवेत् ॥२१६ प्राणायामेन साकं च, स्वासनाभ्यासयोगके । नाडीचक्रस्वरूपाणां, गृहाभ्यन्तरवस्तूनाम् ॥२२०॥ भिन्नाङ्गानां च यादृश्यः, प्रसुप्तशक्तयस्तथा। जागृतिस्तत्र काले च, उत्तमयोगप्राप्तये ॥२२१॥