________________
योग
[४१८] आन्तरश्वास व्यक्तीनां,बाह्यनिष्कासने सति । बाह्यनिरोधकर्तव्ये, बाह्यकुम्भक उच्यते ॥१८॥ तद्विधिश्चाष्टकृत्वश्च, रेचककरणे किल । षोडश बाह्यकुम्भं च,कृत्वा चतुष्कवारतः॥१८॥ पूरके परिका व्ये, रेचकं पूरकैः सह । बाह्मकुम्भककर्तव्ये, बाह्यवृत्तिः प्रकथ्यते ॥१८॥ बाह्यश्वासस्वरूपं च, आन्तरे परिकृष्य च। आन्तरप्रणिरोधे च,आन्तरकुम्भको भवेत् ॥१६॥ तद्विधिः परिदृश्येत, चतुः प्रणवपूरकम् । कृत्वा षोडशचान्तर्य, कुम्भकं परितन्यते ॥१६१॥ ततोऽष्टरेचकांश्चैव, कृत्वाऽनेन प्रकारतः । पूरकरेचकाभ्यां च, कुर्यादान्तरकुम्भकम् ॥१६२॥ तत आभ्यन्तरं कुर्यात् ततो हि बाह्यकुम्भकम् । बाह्याभ्यन्तररूपेषु, एकत्र कुत्रचित्तथा ॥१९३॥ सुखपूर्वकप्राणानां, रोधने स्तम्भवृत्तिकम् । चतुःप्रणवरूपेण, पूरके करणे सति ॥१६४॥ अष्टरेचक कर्तव्ये, ततोऽनेन प्रकारतः। पूरकरेचकौ कृत्वा, यत्र कुत्र सुखेन च ॥१९५॥ :