________________
{ ४१६]
योगअधिकसमये जाते सिद्धिः कस्यापि नो भवेत् ।१६६ क्लेशकारणभतेनानेकोपायेन वायूनाम् । कृत्वा जयं च देहस्थ-नाड़ीप्रचारस्वाधीनम् ॥१७०॥ कृत्वाऽश्रद्धेय देहे च, परस्मिन् संक्रमे कृते । सिद्धऽपि केवलं तेषां, विज्ञानासक्त योगिनाम् १७१ मोक्षमार्गस्य संसिद्धिः, कदापि नैव जायते । आत्मासक्तत्व युक्तानां, तत्र स्पृहा न विद्यते १७२ प्राणायामेन संपीडये, स्वान्ते स्वास्थ्यं च नो भवेत्। किमर्थमुच्यते तादृक् , अतो हेतुनिंगद्यते ॥१७३॥ प्राणस्यायमने पीड़ा, भवेत्तत्र न संशयः। पोडातश्चित्तवैप्लव्यं ततः शान्तिः कुतोभवेत १७४ पूरककुम्भके चैव, रेचके च परिश्रमः । कर्तव्यो नैव चित्तस्य,क्लेशकारण सम्मतः ॥१७॥ क्लेशकारणरूपे च, तादृक् परिश्रमे तथा । कर्तव्ये मोक्षप्राप्तिश्च,प्रत्युत विघ्नतां भजेत् ।१७६। विघ्नानां संनिधाने च, सर्वदा विद्यमानके। कार्ये सिद्धिस्तु कुत्रापि,कदापि नैव सम्भवेत् ॥१७७ नेतीधोत्यादिके येन, हठयोगप्रधानकम् ।