________________
-प्रदोप
[४१५] सूक्ष्मपक्षि शरीरेषु, वेधं पतंगदेहके ॥१६०॥ कृत्वा भृङ्गशरीरेषु, अभ्यासदृढ़तां व्रजेत् । ततो हरिणपश्वादौ, वेधं कृत्वा तथैव च ॥१६१॥ तादृशधीरयोगीन्द्रः, अनन्य मानसो भवेत् । जितेन्द्रियकतां प्राप्य, संचरणं करोति वै ॥१६२॥ ततो नराश्वहस्त्यादि, देहे प्रवेशनिर्गमौ । कृत्वा क्रमेण पुस्तादौ, उपले संक्रमं भजेत् ॥१६३ अनेनैव प्रकारेण, मृतप्राणिकलेवरे । वामनासाग्रद्वारेण, प्रवेशं लभते जनः ॥१६॥ किन्तु पापस्य शंकातः, जीवितप्राणिदेहके। प्रवेशो नैव कर्त्तव्यः, भवभीरुमहात्मना ॥१६॥ अनेनैव प्रकारेण, परदेहप्रवेशने । अभ्यासशक्तितांज्ञात्वा, विमुक्तयोगिना समम्१६६. निर्लेपरूपकं भूत्वा, स्वेच्छाऽनुकूलभावतः । आश्चर्यजनकं ज्ञेयं, परदेहप्रवेशनम् ॥१६७॥ केवलं तच्च स्वाभ्यासशक्तिज्ञानाय शिक्ष्यते । न परवश्वनाथं च, योगिना परितन्यते ॥१६॥ तस्यैव सिद्धिकर्तव्ये, प्रयत्ने शतशः कृते ।