________________
- प्रदीप
[ ४१३ ]
"
उतार्य चन्द्रसादृक्षी, कान्तिकं हाक्षरं पुनः ॥ १४२॥ चन्द्रमार्गेण सन्नाभिपद्मे च परिस्थाप्यताम् । अनेनैव प्रकारेण, विशुद्ध मार्गतस्तथा ॥ १४३॥ निरन्तरं च प्रावेश्यं, निष्क्रमणं करोति यः । नाड्यभ्यासक्रियाणां सः, करणे कुशलो भवेत् १४४ अनेनैव प्रकारेण, नाड्या ह्यभ्यासद्वारतः । मेधावी कुशलो ज्ञानी, स्वकीयेच्छानुसारतः ॥१४५॥ तत्क्षण पुटकेनैव, घटितं सर्वथा भजेत् । अतो वायुविज्ञानार्थं यत्नं करोतु सर्वदा ॥ १४६ ॥ एकस्यां नाडिकायां च सार्द्धद्विघटिकालकम् । सर्वत्र विद्यते वायुः, ततोऽनुपरिवर्तनम् ॥ १४७॥ तां नाड़िकां च संत्यज्य, द्वितीय नाडिकां व्रजेत् । एवं क्रमेण ज्ञातव्यं, वायुसंचारमानकम् ॥१४८॥ स्वस्थे मनुष्यजीवे वै एकत्र दिनरात्रिकम् । प्राणपवन संख्यायाः, प्रमाणं कीदृशं भवेत् । १४६ | गमनागमरूपेण, श्वासोच्छ्वासप्रमाणकम् । तन्यते यदि ज्ञानार्थ, ज्ञानिभिः कथितं तदा । १५०/ एकविंशतिसाहस्रं', षट्शताधिकरूपकम् ।
,
,