________________
-प्रदीप
[४०] द्वयादिदिनपर्यन्तं, रात्रिदिवसकालिकम् । वायोः सूर्ये च संचारः, मृत्युः क्रमेण ज्ञायताम् १०७ त्रि येकवर्षपर्यन्तं, मृत्युकालश्च सम्मतः । चन्द्रस्वरस्य संचारः, फलेन सह कथ्यते ॥१०॥ एक द्वयादित्रिपर्यन्तं रात्रिदिवसकालिकम् । वायोश्चन्द्र च संचारः, तदा रोगश्च ज्ञायताम् १०६ यद्य कमासपर्यन्तं, सूर्यनाडी वहेत्सदा । एकराज्यवसाने च, मृत्युकालश्च सर्वथा ॥११०॥ यद्य कमासपर्यन्तं, चन्द्रनाड़ी वहेत्सदा । तदा तु धनहानिश्च, ज्ञातव्या स्वरवेदिना ॥१११॥ त्रिनाड़ी प्रविमार्गे च, वहेद्वायुश्च सर्वदा । मध्याह्नकालिके पश्चात् मृत्युर्भवति निश्चितम् ।११२ दशदिवशपर्यन्तं, द्विनाडिमार्गके स्थिते । कर्तव्ये गमने मृत्यु, सूचयेन्नात्र संशयः ॥११३॥ यदि दशदिनानां च, चन्द्रनाड्या स्वरो वहेत् । तदोबॅगकरोगादि, जायते वायुदोषतः ॥११॥ तथाधयामपर्यन्तं, इतस्ततश्चलेत्सदा । तदा तु लाभपूजादि, भवति वायुयोगतः॥११५॥