________________
- प्रदीप
पवनदहनौ वायुदक्षिणमार्गगच्छतः । विनाशककरौ ज्ञेयौ, अन्यमार्गे च मध्यमौ ॥ ८ इङ्गलपिंगले चैव, सुषुम्ना नाडिका मता । तासां क्रमेण स्थानानि, चन्द्रसूर्यशिवानि च ॥१० तासु च वामनाडी तु सर्वदा सर्व गात्रके । अमृतवर्षिणी ज्ञेया, अमृतं विभृती सदा ॥१॥ अभीष्टफलसूच्या सा विज्ञेया वामनाडिका । दक्षिणनाडिसंचारः, अनिष्टफलसूचकः ॥६२॥ संहारकारिका साsपि, विज्ञेया नाडिवेदिना । सुषुम्ना संचलन्ती सा, सिद्धिमोक्षप्रदायिनी ॥३ अभ्युदयादि कार्येषु वामनाडी प्रशंसिका । संभोगाहारयुद्धादि दीत कार्येषु दक्षिणा ॥ ६४ ॥ प्रभाते शुक्लपक्षे च, वाम नाडी शुभा मता । कृष्णपक्षे च दक्षिणा, नाडी शुभफला सदा ॥६५ पूर्वोक्तपक्षसर्वेषु त्रिषु त्रिषु दिनेषु च । चन्द्रसूर्योदयौ ज्ञयौ, शुभफलप्रदानकौ ॥६६॥ वायुश्चन्द्रसमाश्रित्य, उदयं यदि गच्छति । अस्तपर्यन्तकं कालं, सूर्ये परिसमाप्नुयात् ॥६७॥
[ ४०७ ]