________________
[५०६]
योगछत्रचामरहस्त्यश्वाः, ज्ञेयानि च पुरन्दरात् । आरामराज्यसमग्री, अभीष्टफलवस्तूनि ॥८॥ राज्यादि सुखसम्पूर्ण, पुत्रस्वजनवन्धुकम् । सरसवस्तु संयोग, सूचयेद्वरुणः सदा ॥१॥ पवनसेवनेनैव, कृषिसेवादि कार्यकम् । A शीघ्र नश्यति मृत्यु च, सूचयेन्नात्र संशयः ॥८२ भयकलहवैरादि, त्रासश्च परिजायते । ततस्तत्सेवनं त्याज्यं, तादृग्योगं चिकीर्षता ॥८॥ दहनसेवनेनैव, दाहभयौ च शोकता। रोगदुःखादि विघ्नानां, श्रेणिं विनाशतां भजेत् ८४ पूर्वोक्त सर्ववायुश्च, चन्द्रसूर्यस्य मार्गतः। मण्डलेच प्रवेशे तु, शुभकारी भवेत्सदा ॥८॥ निष्कासे विपरीतं स्यात्प्रवेशे जीववायुता। निष्काश समये चैव, मृत्युवायुश्च ज्ञायताम् ॥८६॥ चन्द्रमार्गप्रवेशे च, इन्द्रवरुणवायुको । सर्वसिद्धिप्रदातारौ, विज्ञेयो वायुवेदिना ॥ ८॥ सूर्यमार्गात्प्रवेशे च, निष्क्रमणे तथैव च । मध्यमौ द्वौ च विज्ञेयौ, फलप्रदानतः खलु ॥८॥